श्री हरि वायु स्तुति
॥ श्रीहरिवायुस्तुतिः ॥
॥ अथ श्रीनखस्तुतिः ॥
पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा
कुम्भोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः ।
श्रीमत्कण्ठीरवास्य प्रतत सुनखरा दारितारातिदूर
प्रद्ध्वस्तध्वान्त शान्त प्रवितत मनसा भावितानाकिवृन्दैः ॥ १॥ भाविता भूरिभागैः
लक्ष्मीकान्त समन्ततोऽपिकलयन् नैवेशितुस्ते समं
पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः ।
यद्रोशोत्कर दक्ष नेत्र कुटिल प्रान्तोत्थिताग्नि स्फुरत्
खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता
श्रीनृसिंहनखस्तुतिः सम्पुर्णा ।
॥ अथ श्रीहरिवायुस्तुतिः ॥
श्रीमद्विष्ण्वङ्घ्रि निष्ठा अतिगुणगुरुतम श्रीमदानन्दतीर्थ
त्रैलोक्याचार्य पादोज्ज्वल जलजलसत् पांसवोऽस्मान्पुनन्तु ।
वाचांयत्रप्रणेत्रीत्रिभुवनमहिता शारदा शारदेन्दुः
ज्योत्स्नाभद्रस्मित श्रीधवळितककुभाप्रेमभारम्बभार ॥ १॥
उत्कण्ठाकुण्ठकोलाहलजवविदिताजस्रसेवानुवृद्ध
प्राज्ञात्मज्ञान धूतान्धतमससुमनो मौलिरत्नावळीनाम् ।
भक्त्युद्रेकावगाढ प्रघटनसघटात्कार सङ्घृष्यमाण
प्रान्तप्राग्र्याङ्घ्रि पीठोत्थित कनकरजः पिञ्जरारञ्जिताशाः ॥ २॥
जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानाम्
अग्र्याणां अर्पकाणां चिरमुदितचिदानन्द सन्दोहदानाम् ।
एतेषामेशदोष प्रमुषितमनसां द्वेषिणां दूषकाणाम्
दैत्यानामार्थिमन्धे तमसि विदधतां संस्तवेनास्मि शक्तः ॥ ३॥
अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन्जनेज्ञानमार्गम्
वन्द्यं चन्द्रेन्द्ररुद्र द्युमणिफणिवयोः नायकद्यैरिहाद्य ।
मध्वाख्यं मन्त्रसिद्धं किमुतकृतवतो मारुतस्यावतारम्
पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्न पुंसाम् ॥ ४॥
उद्यद्विद्युत्प्रचण्डां निजरुचि निकरव्याप्त लोकावकाशो
बिभ्रद्भीमो भुजेयोऽभ्युदित दिनकराभाङ्गदाढ्य प्रकाण्डे ।
वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिंवायुदेवोविदध्यात्
अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामर्णिमे ॥ ५॥
संसारोत्तापनित्योपशमद सदय स्नेहहासाम्बुपूर
प्रोद्यद्विद्यावनद्य द्युतिमणिकिरण श्रेणिसम्पूरिताशः ।
श्रीवत्साङ्काधि वासोचित तरसरलश्रीमदानन्दतीर्थ
क्षीराम्भोधिर्विभिन्द्याद्भवदनभिमतम्भूरिमेभूति हेतुः ॥ ६॥
मूर्धन्येषोऽन्जलिर्मे दृढतरमिहते बध्यते बन्धपाश
क्षेत्रेधात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे ।
अत्यन्तं सन्ततं त्वं प्रदिश पदयुगे हन्त सन्ताप भाजाम्
अस्माकं भक्तिमेकां भगवत उतते माधवस्याथ वायोः ॥ ७॥
साभ्रोष्णाभीशु शुभ्रप्रभमभयनभो भूरिभूभृद्विभूतिः
भ्राजिष्णुर्भूरृभूणां भवनमपि विभोऽभेदिबभ्रेबभूवे ।
येनभ्रोविभ्रमस्ते भ्रमयतुसुभृशं बभ्रुवद्दुर्भृताशान्
भ्रान्तिर्भेदाव भासस्त्वितिभयमभि भोर्भूक्ष्यतोमायिभिक्षून् ॥ ८॥
येऽमुम्भावम्भजन्ते सुरमुखसुजनाराधितं ते तृतीयम्
भासन्ते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेशाः ।
वैकुण्ठे कण्ठलग्न स्थिरशुचि विलसत्कान्ति तारुण्यलीला
लावण्या पूर्णकान्ता कुचभरसुलभाश्लेषसम्मोदसान्द्राः ॥ ९॥
आनन्दान्मन्दमन्दा ददति हि मरुतः कुन्दमन्दारनन्द्यावर्ता
ऽमोदान् दधानां मृदुपद मुदितोद्गीतकैः सुन्दरीणाम् ।
वृन्दैरावन्द्य मुक्तेन्द्वहिमगु मदनाहीन्द्र देवेन्द्रसेव्ये
मौकुन्दे मन्दरेऽस्मिन्नविरतमुदयन्मोदिनां देव देव ॥ १०॥
उत्तप्तात्युत्कटत्विट् प्रकटकटकट ध्वानसङ्घट्टनोद्यद्
विद्युद्व्यूढस्फुलिङ्ग प्रकर विकिरणोत्क्वाथिते बाधिताङ्गान् ।
उद्गाढम्पात्यमाना तमसि तत इतः किङ्करैः पङ्किलेते
पङ्क्तिर्ग्राव्णां गरिम्णां ग्लपयति हि भवद्वेषिणो विद्वदाद्य ॥ ११॥
अस्मिन्नस्मद्गुरूणां हरिचरण चिरध्यान सन्मङ्गलानाम्
युष्माकं पार्ष्वभूमिं धृतरणरणिकः स्वर्गिसेव्यांप्रपन्नः ।
यस्तूदास्ते स आस्तेऽधिभवमसुलभ क्लेश निर्मूकमस्त
प्रायानन्दं कथं चिन्नवसति सततं पञ्चकष्टेऽतिकष्टे ॥ १२॥
क्षुत् क्षामान् रूक्षरक्षो रदखरनखर क्षुण्णविक्षोभिताक्षान्
आमग्नानान्धकूपे क्षुरमुखमुखरैः पक्षिभिर्विक्षताङ्गान् ।
पूयासृन्मूत्र विष्ठा क्रिमिकुलकलिलेतत्क्षणक्षिप्त शक्त्याद्यस्त्र
व्रातार्दितान् स्त्वद्विष उपजिहते वज्रकल्पा जलूकाः ॥ १३॥
मातर्मेमातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबन्धो
स्वामिन्सर्वान्तरात्मन्नजरजरयितः जन्ममृत्यामयानाम् ।
गोविन्दे देहिभक्तिं भवतिच भगवन्नूर्जितां निर्निमित्ताम्
निर्व्याजां निश्चलां सद्गुणगण बृहतीं शाश्वतीमाशुदेव ॥ १४॥
विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिङ्गरिष्ठाम्
संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु ।
यः सन्धत्ते विरिञ्चि श्वसन विहगपानन्त रुद्रेन्द्र पूर्वे
ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥ १५॥
तत्त्वज्ञान् मुक्तिभाजः सुखयिसि हि गुरो योग्यतातारतम्यात्
आधत्से मिश्रबुद्धिं स्त्रिदिवनिरयभूगोचरान्नित्यबद्धान् ।
तामिस्रान्धादिकाख्ये तमसिसुबहुलं दुःखयस्यन्यथाज्ञान्
विष्णोराज्ञाभिरित्थं शृति शतमितिहासादि चाकर्णयामः ॥ १६॥
वन्देऽहं तं हनूमानिति महितमहापौरुषो बाहुशालि
ख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादि धर्मैः ।
सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजाम्
अंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ १७॥
प्राक्पञ्चाशत्सहस्रैर्व्यवहितमहितं योजनैः पर्वतं त्वम्
यावत्सञ्जीवनाद्यौषध निधिमधिकप्राणलङ्कामनैषिः ।
अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वा
यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैकक्षणे त्वांहिलोकः ॥ १८॥
क्षिप्तः पश्चात्सत्सलीलं शतमतुलमते योजनानां स
उच्चस्तावद्विस्तार वंश्च्यापि उपललवैव व्यग्रबुद्ध्या त्वयातः ।
स्वस्वस्थानस्थिताति स्थिरशकल शिलाजाल संश्लेष नष्ट
छेदाङ्कः प्रागिवाभूत् कपिवरवपुषस्ते नमः कौशलाय ॥ १९॥
दृष्ट्वा दृष्टाधिपोरः स्फुटितकनक सद्वर्म घृष्टास्थिकूटम्
निष्पिष्टं हाटकाद्रि प्रकट तट तटाकाति शङ्को जनोऽभूत् ।
येनाजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुम्
किंनेष्टे मे स तेऽष्टापदकट कतटित्कोटि भामृष्ट काष्ठः ॥ २०॥
देव्यादेश प्रणीति दृहिण हरवरावद्य रक्षो विघाता
ऽद्यासेवोद्यद्दयार्द्रः सहभुजमकरोद्रामनामा मुकुन्दः ।
दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्धिविन्यस्य धन्यम्
तन्वन्भूयः प्रभूत प्रणय विकसिताब्जेक्षणस्त्वेक्षमाणः ॥ २१॥
जघ्नेनिघ्नेनविघ्नो बहुलबलबकध्वंस नाद्येनशोचत्
विप्रानुक्रोश पाशैरसु विधृति सुखस्यैकचक्राजनानाम् ।
तस्मैतेदेव कुर्मः कुरुकुलपतये कर्मणाचप्रणामान्
किर्मीरं दुर्मतीनां प्रथमं अथ च यो नर्मणा निर्ममाथ ॥ २२॥
निर्मृद्नन्नत्य यत्नं विजरवर जरासन्ध कायास्थिसन्धीन्
युद्धे त्वं स्वध्वरे वापशुमिवदमयन् विष्णु पक्षद्विडीशम् ।
यावत्प्रत्यक्ष भूतं निखिलमखभुजं तर्पयामासिथासौ
तावत्यायोजि तृप्त्याकिमुवद भघवन् राजसूयाश्वमेधे ॥ २३॥
क्ष्वेलाक्षीणाट्टहासहं तवरणमरिहन्नुद्गदोद्दामबाहोः
बह्वक्षौहिण्य नीकक्षपण सुनिपुणं यस्य सर्वोत्तमस्य ।
शुष्रूशार्थं चकर्थ स्वयमयमथ संवक्तुमानन्दतीर्थ
श्रीमन्नामन्समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥ २४॥
दृह्यन्तींहृदृहं मां दृतमनिल बलाद्रावयन्तीमविद्या
निद्रांविद्राव्य सद्यो रचनपटुमथापाद्यविद्यासमुद्र ।
वाग्देवी सा सुविद्या द्रविणद विदिता द्रौपदी रुद्रपत्न्यात्
उद्रिक्ताद्रागभद्रा द्रहयतु दयिता पूर्वभीमाज्ञयाते ॥ २५॥
याभ्यां शुश्रूषुरासीः कुरुकुल जनने क्षत्रविप्रोदिताभ्याम्
ब्रह्मभ्यां बृंहिताभ्यां चितसुख वपुषा कृष्णनामास्पदाभ्याम् ।
निर्भेदाभ्यां विशेषाद्विवचन विशयाभ्यामुभाभ्याममूभ्याम्
तुभ्यं च क्षेमदेभ्यः सरिसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥ २६॥
गच्छन् सौगन्धिकार्थं पथि स हनुमतः पुच्छमच्छस्य
भीमः प्रोद्धर्तुं नाशकत्स त्वमुमुरुवपुषा भीषयामास चेति ।
पूर्णज्ञानौजसोस्ते गुरुतमवपुषोः श्रीमदानन्दतीर्थ
क्रीडामात्रं तदेतत् प्रमदद सुधियां मोहक द्वेषभाजाम् ॥ २७॥
बह्वीः कोटीरटीकः कुटलकटुमतीनुत्कटाटोप कोपान्
द्राक्चत्वं सत्वरत्वाच्चरणद गदया पोथयामासिथारीन् ।
उन्मथ्या तत्थ्य मिथ्यात्व वचन वचनान् उत्पथस्थांस्तथाऽयान्
प्रायच्छः स्वप्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥ २८॥
देहादुत्क्रामितानामधिपति रसतामक्रमाद्वक्रबुद्धिः
क्रुद्धः क्रोधैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।
चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टशास्त्रं
दुस्तर्कं चक्रपाणेर्गुणगण विरहं जीवतां चाधिकृत्य ॥ २९॥
तद्दुत्प्रेक्षानुसारात्कतिपय कुनरैरादृतोऽन्यैर्विसृष्टो
ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येषपाशण्डवादः ।
तद्युक्त्याभास जाल प्रसर विषतरूद्दाहदक्षप्रमाण
ज्वालामालाधरोऽग्निः पवन विजयते तेऽवतारस्तृतीयः ॥ ३०॥
आक्रोशन्तोनिराशा भयभर विवशस्वाशयाच्छिन्नदर्पा
वाशन्तो देशनाशस्विति बत कुधियां नाशमाशादशाऽशु ।
धावन्तोऽश्लीलशीला वितथ शपथ शापा शिवाः शान्त शौर्याः
त्वद्व्याख्या सिंहनादे सपदि ददृशिरे मायि गोमायवस्ते ॥ ३१॥
त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितोनिर्विकारः
सर्वज्ञः सर्वशक्तिः सकलगुणगणापूर्ण रूपप्रगल्भः ।
स्वच्छः स्वच्छन्द मृत्युः सुखयसि सुजनं देवकिं चित्रमत्र
त्राता यस्य त्रिधामा जगदुतवशगं किङ्कराः शङ्कराद्याः ॥ ३२॥
उद्यन्मन्दस्मित श्रीर्मृदु मधुमधुरालाप पीयूषधारा
पूरासेकोपशान्ता सुखसुजन मनोलोचना पीयमानं ।
सन्द्रक्ष्येसुन्दरं सन्दुहदिह महदानन्दं आनन्दतीर्थ
श्रीमद्वक्तेन्द्रु बिम्बं दुरतनुदुदितं नित्यदाहं कदानु ॥ ३३॥
प्राचीनाचीर्ण पुण्योच्चय चतुरतराचारतश्चारुचित्तान्
अत्युच्चां रोचयन्तीं शृतिचित वचनांश्राव कांश्चोद्यचुञ्चून् ।
व्याख्यामुत्खात दुःखां चिरमुचित महाचार्य चिन्तारतांस्ते
चित्रां सच्छास्त्रकर्ताश्चरण परिचरां छ्रावयास्मांश्चकिञ्चित् ॥ ३४॥
पीठेरत्नोकपक्लृप्ते रुचिररुचिमणि ज्योतिषा सन्निषण्णम्
ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः ।
सेवन्ते मूर्तिमत्यः सुचरितचरितं भाति गन्धर्व गीतं
प्रत्येकं देवसंसत्स्वपि तव भघवन्नर्तितद्द्योवधूषु ॥ ३५॥
सानुक्रोषैरजस्रं जनिमृति निरयाद्यूर्मिमालाविलेऽस्मिन्
संसाराब्धौनिमग्नांशरणमशरणानिच्छतो वीक्ष्यजन्तून् ।
युष्माभिः प्र्राथितः सन् जलनिधिशयनः सत्यवत्यां महर्षेः
व्यक्तश्चिन्मात्र मूर्तिनखलु भगवतः प्राकृतो जातु देहः ॥ ३६॥
अस्तव्यस्तं समस्तशृति गतमधमैः रत्नपूगं यथान्धैः
अर्थं लोकोपकृत्यैः गुणगणनिलयः सूत्रयामास कृत्स्नम् ।
योऽसौ व्यासाभिधानस्तमहमहरहः भक्तितस्त्वत्प्रसादात्
सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥ ३७॥
आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मि कोटीरकोटौ
कृष्णस्याक्लिष्ट कर्मादधदनु सराणादर्थितो देवसङ्घैः ।
भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्मसूत्रस्य भाष्यम्
दुर्भाष्यं व्यास्यदस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वम् ॥ ३८॥
भूत्वाक्षेत्रे विशुद्धे द्विजगणनिलये रौप्यपीठाभिधाने
तत्रापि ब्रह्मजातिस्त्रिभुवन विशदे मध्यगेहाख्य गेहे ।
पारिव्राज्याधि राजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा
कृत्वा भाष्याणि सम्यक् व्यतनुत च भवान् भरतार्थप्रकाशम् ॥ ३९॥
वन्दे तं त्वां सुपूर्ण प्रमतिमनुदिना सेवितं देववृन्दैः
वन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् ।
वन्दे मन्दाकिनी सत्सरिदमल जलासेक साधिक्य सङ्गम्
वन्देऽहं देव भक्त्या भव भय दहनं सज्जनान्मोदयन्तम् ॥ ४०॥
सुब्रह्मण्याख्य सूरेः सुत इति सुभृशं केशवानन्दतीर्थ
श्रीमत्पादाब्ज भक्तः स्तुतिमकृत हरेर्वायुदेवस्य चास्य ।
त्वत्पादार्चादरेण ग्रथित पदल सन्मालया त्वेतयाये
संराध्यामूनमन्ति प्रततमतिगुणा मुक्तिमेते व्रजन्ति ॥ ४१॥
इति श्रीत्रिविक्रमपण्डिताचार्य विरचितं
श्रीहरिवायुस्तुतिः सम्पूर्णम् ।