शिव बिल्वाष्टकम
त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं |
त्रिजन्म पापसंहारम् ऎकबिल्वं शिवार्पणं ||
त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कॊमलैः शुभैः |
तवपूजां करिष्यामि ऎकबिल्वं शिवार्पणं ||
कॊटि कन्या महादानं तिलपर्वत कॊटयः|
काञ्चनं क्षीलदानॆन ऎकबिल्वं शिवार्पणं ||
काशीक्षॆत्र निवासं च कालभैरव दर्शनं |
प्रयागॆ माधवं दृष्ट्वा ऎकबिल्वं शिवार्पणं ||
इन्दुवारॆ व्रतं स्थित्वा निराहारॊ महॆश्वराः|
नक्तं हौष्यामि दॆवॆश ऎकबिल्वं शिवार्पणं||
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा |
तटाकानिच सन्धानम् ऎकबिल्वं शिवार्पणं ||
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं |
कृतं नाम सहस्रॆण ऎकबिल्वं शिवार्पणं ||
उमया सहदॆवॆश नन्दि वाहनमॆव च |
भस्मलॆपन सर्वाङ्गम् ऎकबिल्वं शिवार्पणं ||
सालग्रामॆषु विप्राणां तटाकं दशकूपयॊः|
यज्नकॊटि सहस्रस्च ऎकबिल्वं शिवार्पणं ||
दन्ति कॊटि सहस्रॆषु अश्वमॆध शतक्रतौ |
कॊटिकन्या महादानम् ऎकबिल्वं शिवार्पणं ||
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं |
अघॊर पापसंहारम् ऎकबिल्वं शिवार्पणं ||
सहस्रवॆद पाटॆषु ब्रह्मस्तापन मुच्यतॆ |
अनॆकव्रत कॊटीनाम् ऎकबिल्वं शिवार्पणं ||
अन्नदान सहस्रॆषु सहस्रॊप नयनं तधा |
अनॆक जन्मपापानि ऎकबिल्वं शिवार्पणं ||
बिल्वस्तॊत्रमिदं पुण्यं यः पठॆश्शिव सन्निधौ |
शिवलॊकमवाप्नॊति ऎकबिल्वं शिवार्पणं ||