बुध कवचम्
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य, कश्यप ऋषिः,
अनुष्टुप् छंदः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।
अथ बुध कवचम्
बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतिः ।
पीतांबरधरः पातु पीतमाल्यानुलेपनः ॥ 1 ॥
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ 2 ॥
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम ।
कंठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥ 3 ॥
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥ 4 ॥
जानुनी रौहिणेयश्च पातु जंघे??उखिलप्रदः ।
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ॥ 5 ॥
अथ फलश्रुतिः
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥ 6 ॥
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 7 ॥
॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णम् ॥